Saturday 23 January 2021

Purush Sukta with variation of words as per rucha number

 These are all about Purush Sukt which are as mentioned in three veda and few words differences matter attract to write me... have a look three veda's three types Prusush sukt at a glance...


Atharva Vedic 19, 6 sukt 15 rucha

सहस्रबाहुः पुरुषः सहस्राक्षः सहस्रपात्।               sahastra bahu     
स भूमि विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥१॥        vishvato    
त्रिभिः पद्भिामरोहत्पादस्येहाभवत्पुनः । 
तथा व्यक्रामद्विष्वङशनानशने अनु ॥२॥
तावन्तो अस्य महिमानस्ततो ज्यायांश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥
पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् ।              YachchBHAAVYAM
उतामृतत्वस्येश्वरो यदन्येनाभवत्सह ॥४॥
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । 
मुखं किमस्य किं बाहू किमूरू पादा उच्यते ॥५॥
ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्योऽभवत्। 
मध्यं तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥६॥
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ।।७।।
नाभ्या आसीदन्तरिक्षं शीर्णो द्यौः समवर्तत । 
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकामकल्पयन् ॥८॥
विराडग्रे समभवद्विराजो अधि पूरुषः । 
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥९॥
यत्पुरुषेण हविषा देवा यज्ञमतन्वत । 
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥१०॥
तं यज्ञं प्रावृषा प्रौक्षन् पुरुषं जातमग्रशः । 
तेन देवा अयजन्त साध्या वसवश्च ये ॥११॥
तस्मादश्वा अजायन्त ये च के चोभयादतः । 
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥१२॥
तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे । 
छन्दो ह जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥१३॥
तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् । 
पशुंस्तांश्चक्रे वायव्यान् आरण्या ग्राम्याश्च ये ॥१४॥
सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः । 
देवा यद्यज्ञं तन्वाना अबध्नन् पुरुष पशुम् ॥१५॥
मूर्जो देवस्य बृहतो अंशवः सप्त सप्ततीः । 
राज्ञः सोमस्याजायन्त जातस्य पुरुषादधि ॥१६॥


Rugvediya 10, 90

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।            sahstra shirsha    
स भूमि विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम्॥१॥      vishwato vrutva
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।                 yachch Bhavyam
उतामृतत्वस्येशानो यदन्नेनातिरोहति॥२॥
एतावानस्य महिमातो ज्यायाढ्त्श्च पूरुषः । 
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि॥३॥
त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः । 
ततो विष्वव्यक्रामत्साशनानशने अभि॥४॥
तस्माद्विराळजायत विराजो अधि पूरुषः । 
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः॥५॥     
यत्पुरुषेण हविषा देवा यज्ञमतन्वत । 
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः॥६॥
तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः । 
तेन देवा अयजन्त साध्या ऋषयश्च ये॥७॥
तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशून्ताढ्त्श्चक्रे वायव्यानारण्यान्ग्राम्याश्च ये॥८॥
तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे । 
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत॥९॥
तस्मादश्वा अजायन्त ये के चोभयादतः । 
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः॥१०॥
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । 
मुखं किमस्य कौ बाहू का ऊरू पादा उच्यते॥११॥
ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः । 
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत॥१२॥
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत॥१३॥
नाभ्या आसीदन्तरिक्षं शीर्णो द्यौः समवर्तत । 
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन्॥१४॥
सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः । 
देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम्॥१५॥
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्। 
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः॥१६॥


Yajurvediya 31, first 16 out of 22 

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।                 sahastra shrisha  
स भूमि सर्वतस्पृत्वात्यतिष्ठद्दशाङ्गुलम् ॥१॥            sarvata sprutwa 
पुरुष एवेदँ सर्वं यद्भूतं यच्च भाव्यम् ।                    Yachch BhAAvyam
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥२॥
एतावानस्य महिमातो ज्यायाँश्च पूरुषः । 
पादो स्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥
त्रिपादूर्ध्व उऐत्पुरुषः पादो स्येहाभवत्पुनः । 
ततो विष्वव्यक्रामत्साशनानशने अभि ॥४॥
तस्माद्विराडजायत विराजो अधि पूरुषः । 
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥५॥
तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् । 
परा॒स्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥६॥
तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे । 
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥७॥
तस्मादश्वा अजायन्त ये के चोभयादतः । 
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥८॥
तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः । 
तेन देवा अयजन्त साध्या ऋषयश्चये ॥९॥
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । 
मुखं किमस्य कौ बाहू का ऊरू पादा उच्यते ॥१०॥
ब्राह्मणो स्य मुखमासीद्बाहू राजन्यः कृतः । 
ऊरू तदस्य यद्वैश्यः पद्भ्याँ शूद्रो अजायत ॥११॥
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत । 
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ।।१२।।
नाभ्या आसीदन्तरिक्ष शीर्णो द्यौः समवर्तत । 
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन् ॥१३॥
यत्पुरुषेण हविषा देवा यज्ञमतन्वत । 
वसन्तो स्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥१४॥
सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः । 
देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ॥१५॥
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः॥१६॥
अद्भ्यः सम्भृतः पृथिव्यै रसाच्च विश्वकर्मणः समवर्तताग्रे । 
तस्य त्वष्टा विदधद्रूपमेति तन्मर्त्यस्य देवत्वमाजानमग्रे ॥१७॥
वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ।
तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यते यनाय॥१८॥
प्रजापतिश्चरति गर्भे अन्तरजायमानो बहुधा वि जायते।
तस्य योनि परि पश्यन्ति धीरास्तस्मिन्ह तस्थुर्भुवनानि विश्वा ॥१९॥
यो देवेभ्य आतपति यो देवानां पुरोहितः । 
पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये ॥२०॥
रुचं ब्राम्यं जनयन्तो देवा अग्रे तदब्रुवन् । 
यस्त्वैवं ब्राह्मणो विद्यात्तस्य देवा असन्वशे ॥२१॥
श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्ताम् । 
इष्णन्निषाणामुंम इषाण सर्वलोकं म इषाण ॥२२॥



Rugved has few similer shloks or rucha about purushsukt with yajurvediy shlok or mantra... we can see or read here by the number as according

Rugved          06, 07, 08, 09, 10, 11, 12, 13, 14, 15, 16
Yajurved        14, 09, 06, 07, 08, 09, 10, 11, 12, 13, 15


the main difference of words are TATO and TASMAAT


No comments:

Post a Comment