सूर्य उपासना प्रात: स्मरण।
प्रात: स्मरामि खलु तत्सवितुर्वरेण्यम
रूपं हि मण्डल मृचोऽथ तनुर्यजूंषि |
सामानि यस्य किरणा: प्रभवादि हेतुं ब्रम्हाहरात्मकमलक्ष्यमचिन्त्यरूपम || १ ||
प्रातर्नमामी तरणिम तनुवांगमनोभि:
ब्रम्हेन्द्रपूर्वकसुरैर्नुतमर्चितं च।
वृष्टि-प्रमोचनविनी-गृहहेतुभूतं
त्रैलोक्यपालनपरं त्रिगुणात्मकं च || २||
प्रातर्भजामी सवितारमनन्तशक्तिं
पापौघशत्रुभयरोगहरं परं च |
तं सर्वलोककल्नात्मककालमूर्तिं
गोकंठबंधन विमोचनमादीदेवम || ३ ||
No comments:
Post a Comment