Monday 5 July 2021

सूर्य उपासना ध्यान मंत्र

सूर्य उपासना ध्यान मंत्र

ॐ आदित्याय नमः  
यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैर्वेदैः 
साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः।।  
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुरगणाः देवाय तस्मै नमः ||१||

ॐ आदित्याय नमः  
मूर्तित्वे परिकल्पितः शश भृतो वर्मापुनर्जन्मना 
मात्मेत्यात्म विदां क्रतुश्च यजतां भर्तामर ज्योतिषाम् |  
लोकानां प्रलयोद्भवस्थिति विभुः चानेकधायः श्रुतौ
वाचं नःसददात्वनेक किरणः त्रैलोक्यदीपो रविः ||२||

ॐ आदित्याय नमः  
भास्वान्काश्यपगोत्रजो रुणरुचिर्य: सिंहराशीश्वरः 
षट्विस्थो दश शोभनोगुरुशशी भौमेषु मित्रं सदा।
शुक्रो मन्दरिपुकलिंगजनितः चाग्नीश्वरो देवते 
मध्ये वर्तुलपूर्वदिग्दिनकर: कुर्यात् सदा मंगलम्।।३।।  

No comments:

Post a Comment