Monday 5 July 2021

सूर्य आह्वाहन मंत्र उपासना

सूर्य आह्वाहन मंत्र उपासना

त्वं भानो जगतश्चक्षु स्त्वमात्मा सर्व देहिनाम् |
त्वं योनिः सर्वभूतानां त्वमाचार: क्रियावताम् ||

त्वं गति: सर्वसांख्यानां योगिनां त्वं परायणम् |
अनावृतार्गलद्वारं त्वं गतिस्त्वं मुमुक्षताम् ||

त्वया संधार्यते लोकस्त्वया लोक: प्रकाश्यते |
त्वया पवित्री क्रियते निर्व्याजं पाल्यते त्वया ||

मनूनां मनुपुत्राणां जगतो मानवस्य च |
मन्वन्तराणां सर्वेषामीश्वराणां त्वमीश्वरः ।।

ज्योतींषित्वयि सर्वाणी त्वं सर्व ज्योतिषां पति: |
त्वयि सत्यं च सत्त्वं च सर्वे भावाश्च सात्त्विका: ||

आवाह्येतं द्विभुजं दिनेशं सप्ताश्ववाहं धुमणिं ग्रहेषम |
सिन्दूरवर्णप्रतिमावभासं भजामि सूर्य कुलवृद्धिहेतोः ॥

No comments:

Post a Comment